अपराधसहस्त्राणि क्रियन्तेअहर्निशं मया ।
दासोअयमिति मां मत्वा क्षमस्व परमेश्वरि ।।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ।।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवी परिपूर्णं तदस्तु मे ।।
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं सम वाप्रनोति न तां ब्राह्मादयः सुरा ।।
सापराधोअस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योअहं यथेच्छसि त्था कुरु ।।
अज्ञानाद्विस्मृतेभ्रार्न्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्षम्यतां देवी प्रसीद परमेश्वरि ।।
कामेश्वरि जगन्मातः सच्चिदानंद्विग्रहे ।
गृहाणार्चा मिमां प्रीत्या प्रसीद परमेश्वरि ।।
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवी त्वत्प्रसादात्सुरेश्वरि ।।
No comments:
Post a Comment